RUSSIAN YOGA FEDERATION | ФЕДЕРАЦИЯ ЙОГИ РОССИИ

Санскрит

Анализ, переводы, грамматика

22.02.2026 02:22:45

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥१॥
नमस्ते गरुडारूढे कोलासुरभयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भुते महालक्ष्मि नमोऽस्तु ते ॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥‌६॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥८॥
महालक्ष्म्यष्टकम् स्तोत्रम् यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यम् प्राप्नोति सर्वदा ॥९॥
एककाले पठेन्नित्यम् महापापविनाशनम् ।
द्विकालम् यः पठेन्नित्यम् धनधान्यसमन्वितः ॥१०॥
त्रिकालम् यः पठेन्नित्यम् महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यम् प्रसन्ना वरदा शुभा ॥११॥
इतीन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम्

Подробнее...

01.01.2025 16:30:16

Грамматический анализ и перевод.

Подробнее...

06.06.2022 01:03:00

नवग्रहस्तोत्रम्

navagrahastotram

Гимн девяти планетам

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥२॥
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥३॥
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥४॥
देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥५॥
हिमकुन्दमृणलाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥‌६॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥‍७॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥८॥
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥९॥
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥१०॥
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥११॥
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥१२॥

Грамматический анализ и перевод.

Подробнее...

असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽमृतं गमय ॥
asato mā sadgamaya;
tamaso mā jyotirgamaya;
mṛtyormā'mṛtaṃ gamaya.

Мантра из Брихадараньяка-упанишады (Bṛhadāraṇyaka Upaniṣad 1.3.28), входящей в Шукла Яджур-Ведy (śukla yajurveda).

Грамматический анализ и перевод.

Подробнее...

ॐ त्र्यम्बकं यजामहे
सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्
मृत्योर्मुक्षीय माऽमृतात् ॥
oṃ tryambakaṃ yajāmahe
sugandhiṃ puṣṭivardhanam;
urvārukamiva bandhanān
mṛtyormukṣīya mā'mṛtāt.

Мантра из Риг-Веды (ṛgveda 7.59.12)

Грамматический анализ и перевод

Подробнее...

ॐ भूर्भुवः स्वः ।
तत् सवितुर्वरेण्यम्
भर्गोदेवस्य धीमहि ।
धियोयोनः प्रचोदयात् ॥
oṃ bhūrbhuvaḥ svaḥ;
tat saviturvareṇyam
bhargodevasya dhīmahi;
dhiyoyonaḥ pracodayāt.

Мантра из Риг-Веды (ṛgveda 3.62.10).

Грамматический анализ и перевод

Подробнее...

Упорядочить: